|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.252. अध्यायः 252
Mahabharata - Adi Parva - Chapter Topics
खाण्डवदाहं दृष्ट्वा त्रस्तैर्देवैः प्रार्थितेनेन्द्रेण जलवर्षणम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-252-0x(1327)(10967)
तौ रथाभ्यां रथश्रेष्ठौ दावस्योभयतः स्थितौ।
दिक्षु सर्वासु भूतानां चक्राते कदनं महत्॥ 1-252-1(10968)
यत्र यत्र च दृश्यन्ते प्राणिनः खाण्डवालयाः।
पलायन्तः प्रवीरौ तौ तत्रतत्राभ्यधावताम्॥ 1-252-2(10969)
छिद्रं न स्म प्रपश्यन्ति रथयोराशुचारिणोः।
आविद्धावेव दृश्येते रथिनौ तौ रथोत्तमौ॥ 1-252-3(10970)
खाण्डवे दह्यमाने तु भूतान्यथ सहस्रशः।
उत्पेतुर्भैरवान्नादान्विनदन्तः समन्ततः॥ 1-252-4(10971)
दग्धैकदेशा बहवो निष्टप्ताश्च तथाऽपरे।
स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च तथाऽपरे॥ 1-252-5(10972)
समालिङ्ग्य सुतानन्ये पितॄन्भ्रातॄनथाऽपरे।
त्यक्तुं न शेकुः स्नेहेन तत्रैव निधनं गताः॥ 1-252-6(10973)
सन्दष्टदशनाश्चान्ये समुत्पेतुरनेकशः।
ततस्तेऽतीव घूर्णन्तः पुनरग्नौ प्रपेदिरे॥ 1-252-7(10974)
दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतले।
तत्रतत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः॥ 1-252-8(10975)
जलाशयेषु तप्तेषु क्वाथ्यमानेषु वह्निना।
गतसत्वाः स्म दृश्यन्ते कूर्ममत्स्याः समन्ततः॥ 1-252-9(10976)
शरीरैरपरे दीप्तैर्देहवन्त इवाग्नयः।
अदृश्यन्त वने तत्र प्राणिनः प्राणिसंक्षये॥ 1-252-10(10977)
कांश्चिदुत्पततः पार्थः शरैः संछिद्य खण्डशः।
पातयामास विहगान्प्रदीप्ते वसुरेतसि॥ 1-252-11(10978)
ते शराचितसर्वाङ्गा निनदन्तो महारवान्।
ऊर्ध्वमुत्पत्य वेगेन निपेतुः खाण्डवे पुनः॥ 1-252-12(10979)
शरैरभ्याहतानां च सङ्घशः स्म वनौकसाम्।
विरावः शुश्रुवे घोरः समुद्रस्येव मथ्यतः॥ 1-252-13(10980)
वह्नेश्चापि प्रदीप्तस्य खमुत्पेतुर्महार्चिषः।
जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम्॥ 1-252-14(10981)
तेनार्चिषा सुसन्तप्ता देवाः सर्षिपुरोगमाः।
ततो जग्मुर्महात्मानः सर्व एव दिवौकसः।
शतक्रतुं सहस्राक्षं देवेशमसुरार्दनम्॥ 1-252-15(10982)
देवा ऊचुः। 1-252-16x(1328)
किं न्विमे मानवाः सर्वे दह्यन्ते चित्रभानुना।
कच्चिन्न संक्षयः प्राप्तो लोकानाममरेश्वर॥ 1-252-16(10983)
वैशम्पायन उवाच। 1-252-17x(1329)
तच्छ्रुत्वा वृत्रहा तेभ्यः स्वयमेवान्ववेक्ष्य च।
खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः॥ 1-252-17(10984)
महता रथबृन्देन नानारूपेण वासवः।
आकाशं समवाकीर्य प्रववर्ष सुरेश्वरः॥ 1-252-18(10985)
ततोऽक्षमात्रा व्यसृजन्धाराः शतसहस्रशः।
चोदिता देवराजेन जलदाः खाण्डवं प्रति॥ 1-252-19(10986)
असंप्राप्तास्तु ता धारास्तेजसा जातवेदसः।
ख एव समुशुष्यन्त नकाश्चित्पावकं गताः॥ 1-252-20(10987)
ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा।
पुनरेव महामेघैरम्भांसि व्यसृजद्बहु॥ 1-252-21(10988)
अर्चिर्धाराभिसंबद्धं धूमविद्युत्समाकुलम्।
बभूव तद्वनं घोरं स्तनयित्नुसमाकुलम्॥ ॥ 1-252-22(10989)
इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि द्विपञ्चाशदधिकद्विशततमोऽध्यायः॥ 252 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-252-3 आविद्धावेव अलातचक्रवद्भ्रामितावेव॥ द्विपञ्चाशदधिकद्विशततमोऽध्यायः॥ 252 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|